2017, Vol. 2 Issue 2, Part A
अयनांश विमर्श:
Author(s): डॉ0 नन्दन कुमार तिवारी
Abstract: अयनांशस्य खगोलशास्त्रे महत्वपूर्णं स्थानं विद्यते। भूगोलीयाक्षकोटया: परिवर्त्तनमेवायवनगति:। तत्तु स्व- स्व पिण्डाक्षकोटयानुरोधेन सर्वेषां पिण्डानां भवति। प्रतिगोलीयायनव्यवस्था तु तद् -२ गोलीय संपातानुरोधेन साध्यते। परम्परापि तथा वर्त्तते। सायणाख्यं सौरमण्डलं निरयणाख्यं च नक्षत्रमण्डलमिति। फलत: नक्षत्राणां कदम्बाभिमुखभोग: न परिवर्त्यते परं सौरायनेन ध्रुवाभिमुखभोग: परिवर्त्यत। अयनांशशब्देन नक्षत्रसापेक्षत्वेन संपातस्य चलनांशस्यावबोधो भवति। अय गतौ प्रयुक्तत्वादयनांशशब्दाच्चलनांशस्य बोध: स्यादिति। स्व सौरमण्डलस्याधार: सूर्य: सौरजगदात्मा विद्यते। अयनांशस्य सूर्याकर्षणेन ग्रहाकर्षणै: भूकेन्द्रिकाकर्षणैश्च भूचलनेन सम्बन्ध: दृश्यते। अयनशब्द: गोलीय संपातिकस्थानस्य निरूपक: केन्द्रान्तरजनित-विचलनस्य द्योतक: प्रतिपिण्डीयसापेक्षत्वेन तथ्यत्वमेति। यद् उपपत्तेरभावात् दोलात्मकं भ्रमणमसमीचीनमिति प्रतिभाति अत: सम्पातस्यापि चक्रभ्रमणमेव भविष्यति। यतोहि अस्य नियामक: कदम्बतारा नास्ति। कदम्बेनाकृष्ट क्रान्तिवृत्त: २४ चतुर्विंशात्मकमंशं यावत् सौम्ये याम्ये च गच्छति। परन्तु अत्र अयनगतौ भूमे: सार्धत्रयोविंशत्यंशात्मकं१नमनमेव वर्तते। एवं किंचिनमिता भूमि: सूर्यं परितो भ्रमति। अस्या चक्रभ्रमणकाल: ३६५/१५/३१/३० पंचषष्ट्युत्तर शतत्रयदिवसा: पंचदशघटिका: एकत्रिंशतकला: त्रिंशद्विकलाश्च सन्ति। भूमे राकारो वतुलो नास्ति अपि तु वर्तुल इव वर्तते । अस्या उभयपार्श्वे ध्रुवीयप्रदेशा किचिंन्नम्रा: सन्ति२। रवेर्भ्रमणं विषुवतीय प्रदेशेष्वेव न भवति अपितु क्रान्ति मानेनान्तरिता रवे: कक्षा भवति। अत: सूर्याकर्षणेन पाते गतिरायाति। अस्माद्धेतो: सम्पातस्य चक्रभ्रमणमेव युक्तियुक्त मिति। वस्तुतोऽस्या यनस्य विवाद: सप्तविंशत्यंशानन्तरमेवोपरतं भविष्यति। आधुनिका: प्राचीनाश्च सर्वे विवदमाना एव सन्ति। केवलं सौरमतमेव स्वकीयाभिमतं सुस्पष्ट मुद् घोषितवान्।
How to cite this article:
डॉ0 नन्दन कुमार तिवारी. अयनांश विमर्श:. Int J Jyotish Res 2017;2(2):01-04.